Saturday, June 23, 2012

श्री वाक्सरस्वती हृदयस्तवः |

श्री वाक्सरस्वती हृदयस्तवः ।
अस्य श्री सरस्वती स्तोत्र महामंत्रस्य​ । ब्रह्मा ऋषिः । गायत्री छंदः । श्री सरस्वती देवता । धर्मार्थकाममोक्षसिध्यर्थे जपे विनियोगः ॥ (मेधा प्रज्ञान सिध्ध्यर्थे जपे विनियोगः ॥)



ॐ; ऐं ऐं ऐं जाप्यतुष्टे हिमरुचिमकुटे वल्लकीव्यग्रहस्ते ।
मातर्मातर्नमस्ते दहदहजडतां देहि बुध्धिं प्रशस्ताम् ।
विद्ये वेदांत​गीते शृति परिपठिते मोक्षदे मुक्तिमार्गे ।
मार्गातीतस्वरूपे भव मम वरदे शारदे शुभ्र वर्णे ॥ 1 ||



ॐ ह्रीं ह्रीं ह्रीं हृद्यबीजे शशिरुचि मकुटे कल्पविस्पष्टशोभे ।
भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोद सम्पादयित्रि ।
प्रोत्फुल्ले ज्ञानकूटे हरिहरदयिते देवि सम्सार सारे ॥ 2 ||



ॐ क्लीं क्लीं क्लीं सुस्वरूपे दहदह दुरितं पुस्तकव्यग्रहस्ते ।
संतुष्टाकारचित्ते स्मितमुखसुभगे जृंभिणी स्तंभ​विद्ये ।
मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वांत​विध्वंसमीडे ।
गीर्वाग्वाग्भारति त्वं कविवररसने सिध्धिदे सिध्धि साध्ये ॥ 3 ||



ॐ सौः सौः सौः शक्तिबीजे कमलभवमुखांभोजरूपे स्वरूपे ।
रूपे रूपप्रकाशे सकल गुणमये निर्गुणे निर्विकारे ।
नस्थूले नैवसूक्ष्मे2प्यविदितविभवे जाप्य विज्ञानतत्त्वे ।
विश्वे विश्वान्तराळे सकल गुणमये निष्कळे नित्यशुध्धे । 4 ||



ॐ धीं धीं धीं धारणाख्ये धृतिमतिनुतिभिर्नामभिः कीर्तनीये ।
नित्ये2नित्येनिमित्ते मुनिगणविनुते नूतनेवैपुराणे ।
पुण्ये पुण्यप्रवाहे हरिहरविनुते पूर्णतत्त्वे सुवर्णे ।
मातर्मात्रार्थतत्त्वे भगवति मतिदे माधवे प्रीतिमोदे ॥ 5 ||



स्तौमि त्वां त्वांच वंदे मम भज रसनां मां कदाचित्त्वबोधः ।
मामेबुध्धिर्विरुध्धाभवतु मम मनः पाहिमां देवि पापात् ।
मामे दुःखं कदाचित्क्वचिदपिसमये पुस्तके माकुरुत्वम् ।
शास्त्रेवादेकवित्वे प्रसरतु मम धीः मास्तुकुंठा कदाचित् ॥ 6 ||



इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौतियोभक्तिनम्रः ।
वाणीं वाचस्पतेरप्यभिमत​विभवो वाक्पटुर्नष्टपंकः ।
सस्स्यादिष्टार्थलाभैः सुतमिव सततं पालितंचापिदेवी ।
सौभाग्यं तस्य लोके प्रभवति कविता विध्ननाशश्च भूयात् ॥ 7 ||



निर्विघ्नं तस्य विद्या प्रभवति सततंचाशृतग्रन्थबोधः ।
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः संततं राजमान्यः ।
वाग्देव्याः संप्रसादात्त् त्रिजगतिविजयी जायते सत्सभासु ॥ 8 ||



ब्रह्मचारि व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वत जपात् पाठात् सकृदिष्टार्थलाभवान् ॥ 9 ||
पक्षद्वये त्रयोदश्यां एकविंशति संख्यया ।
अविछ्छिन्नं पठेध्धीमान् ध्यात्वा देवीं सरस्वतीम् ।| 10 ||
सर्वपापविनिर्मुक्तः सुभगो लोकविशृतः ।
वान्छितं फलमाप्नोति लोके2स्मिन्नात्र संशयः ॥ 11 ||



इति श्री ब्रह्मांडपुराणे नारद नंदिकेश्वर संवादे ब्रह्मप्रोक्ते विद्यादान वाक्सरस्वतीहृदय स्तोत्रं संपूर्णम् ॥

3 comments:

  1. Thanks that I have a read of the excellent stotra of vAk.Kindly rectify the printing mistakes so that those who would like to have a chant of it are benefited.
    SMMishra

    ReplyDelete
  2. Dear Surendra,

    Please could you help me by specifically pointing out the printing mistakes?

    ReplyDelete
  3. very nice your blog. could you pls. arrange this in telugu lipi.
    Regards,
    KRRAO
    Baskaranada natha

    ReplyDelete